फ़ॉन्ट आकार

ब्रह्म संहिता

ईश्वरः परमः कृष्णः सच्चिदानन्द विग्रहः ।
अनादिरादिर्गोविन्दः सर्व कारण कारणम् ॥ 1 ॥


चिन्तामणि प्रकर सद्मसु कल्पवृक्ष
लक्षावृतेषु सुरभीरभिपालयन्तम् ।
लक्ष्मी सहस्र शत सम्भ्रम सेव्यमानं
गोविन्दमादि पुरुषं तमहं भजामि ॥ 29 ॥


वेणुं क्वणन्तमरविन्द दलायताक्षं
बर्हावतंसमसिताम्बुद सुन्दराङ्गम् ।
कन्दर्प कोटि कमनीय विशेष शोभं
गोविन्दमादि पुरुषं तमहं भजामि ॥ 30 ॥


आलोल चन्द्रक लसद्वनमाल्य वंशी
रत्नाङ्गदं प्रणय केलि कला विलासम् ।
श्यामं त्रिभङ्ग ललितं नियत प्रकाशं
गोविन्दमादि पुरुषं तमहं भजामि ॥ 31 ॥


अङ्गानि यस्य सकलेन्द्रिय वृत्तिमन्ति
पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।
आनन्द चिन्मय सदुज्ज्वल विग्रहस्य
गोविन्दमादि पुरुषं तमहं भजामि ॥ 32 ॥


अद्वैतमच्युतमनादिमनन्त रूपम्
आद्यं पुराण पुरुषं नव यौवनं च ।
वेदेषु दुर्लभमदुर्लभमात्म भक्तौ
गोविन्दमादि पुरुषं तमहं भजामि ॥ 33 ॥


पन्थास्तु कोटि शत वत्सर सम्प्रगम्यो
वायोरथापि मनसो मुनि पुङ्गवानाम् ।
सोऽप्यस्ति यत्प्रपद सीम्न्यविचिन्त्य तत्त्वे
गोविन्दमादि पुरुषं तमहं भजामि ॥ 34 ॥


एकोऽप्यसौ रचयितुं जगदण्ड कोटिं
यच्छक्तिरस्ति जगदण्ड चया यदन्तः ।
अण्डान्तरस्थ परमाणु चयान्तरस्थं
गोविन्दमादि पुरुषं तमहं भजामि ॥ 35 ॥


यद्भाव भावित धियो मनुजास्तथैव
सम्प्राप्य रूप महिमासन यान भूषाः ।
सूक्तैर्यमेव निगम प्रथितैः स्तुवन्ति
गोविन्दमादि पुरुषं तमहं भजामि ॥ 36 ॥


आनन्द चिन्मय रस प्रतिभाविताभिस्
ताभिर्य एव निज रूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्म भूतो
गोविन्दमादि पुरुषं तमहं भजामि ॥ 37 ॥


प्रेमाञ्जन च्छुरित भक्ति विलोचनेन
सन्तः सदैव हृदयेषु विलोकयन्ति ।
यं श्यामसुन्दरमचिन्त्य गुण स्वरूपं
गोविन्दमादि पुरुषं तमहं भजामि ॥ 38 ॥


रामादि मूर्तिषु कला नियमेन तिष्ठन्
नानावतारमकरोद्भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत्परमः पुमान्यो
गोविन्दमादि पुरुषं तमहं भजामि ॥ 39 ॥


यस्य प्रभा प्रभवतो जगदण्ड कोटि
कोटिष्वशेष वसुधादि विभूति भिन्नम् ।
तद्ब्रह्म निष्कलमनन्तमशेष भूतं
गोविन्दमादि पुरुषं तमहं भजामि ॥ 40 ॥


माया हि यस्य जगदण्ड शतानि सूते
त्रैगुण्य तद्विषय वेद वितायमाना ।
सत्त्वावलम्बि पर सत्त्वं विशुद्ध सत्त्वम्
गोविन्दमादि पुरुषं तमहं भजामि ॥ 41 ॥


आनन्द चिन्मय रसात्मतया मनःसु
यः प्राणिनां प्रतिफलन्स्मरतामुपेत्य ।
लीलायितेन भुवनानि जयत्यजस्रं
गोविन्दमादि पुरुषं तमहं भजामि ॥ 42 ॥


गोलोक नाम्नि निज धाम्नि तले च तस्य
देवी महेश हरि धामसु तेषु तेषु ।
ते ते प्रभाव निचया विहिताश्च येन
गोविन्दमादि पुरुषं तमहं भजामि ॥ 43 ॥


सृष्टि स्थिति प्रलय साधन शक्तिरेका
छायेव यस्य भुवनानि बिभर्ति दुर्गा ।
इच्छानुरूपमपि यस्य च चेष्टते सा
गोविन्दमादि पुरुषं तमहं भजामि ॥ 44 ॥


क्षीरं यथा दधि विकार विशेष योगात्
सञ्जायते न हि ततः पृथगस्ति हेतोः ।
यः शम्भुतामपि तथा समुपैति कार्याद्
गोविन्दमादि पुरुषं तमहं भजामि ॥ 45 ॥


दीपार्चिरेव हि दशान्तरमभ्युपेत्य
दीपायते विवृत हेतु समान धर्मा ।
यस्तादृगेव हि च विष्णुतया विभाति
गोविन्दमादि पुरुषं तमहं भजामि ॥ 46 ॥


यः कारणार्णव जले भजति स्म योग
निद्रामनन्त जगदण्ड सरोमकूपः ।
आधार शक्तिमवलम्ब्य परां स्वमूर्तिं
गोविन्दमादि पुरुषं तमहं भजामि ॥ 47 ॥


यस्यैक निश्वसित कालमथावलम्ब्य
जीवन्ति लोम विलजा जगदण्ड नाथाः ।
विष्णुर्महान्स इह यस्य कला विशेषो
गोविन्दमादि पुरुषं तमहं भजामि ॥ 48 ॥


भास्वान्यथाश्म शकलेषु निजेषु तेजः
स्वीयं कियत्प्रकटयत्यपि तद्वदत्र ।
ब्रह्मा य एष जगदण्ड विधान कर्ता
गोविन्दमादि पुरुषं तमहं भजामि ॥ 49 ॥


यत्पाद पल्लव युगं विनिधाय कुम्भ
द्वन्द्वे प्रणाम समये स गणाधिराजः ।
विघ्नान्विहन्तुमलमस्य जगत्त्रयस्य
गोविन्दमादि पुरुषं तमहं भजामि ॥ 50 ॥


अग्निर्मही गगनमम्बु मरुद्दिशश्च
कालस्तथात्म मनसीति जगत्त्रयाणि ।
यस्माद्भवन्ति विभवन्ति विशन्ति यं च
गोविन्दमादि पुरुषं तमहं भजामि ॥ 51 ॥


यच्चक्षुरेष सविता सकल ग्रहाणां
राजा समस्त सुर मूर्तिरशेष तेजाः ।
यस्याज्ञया भ्रमति सम्भृत काल चक्रो
गोविन्दमादि पुरुषं तमहं भजामि ॥ 52 ॥


धर्मोऽथ पाप निचयः श्रुतयस्तपांसि
ब्रह्मादि कीट पतगावधयश्च जीवाः ।
यद्दत्त मात्र विभव प्रकट प्रभावा
गोविन्दमादि पुरुषं तमहं भजामि ॥ 53 ॥


यस्त्विन्द्रगोपमथवेन्द्रमहो स्वकर्म
बन्धानुरूप फल भाजनमातनोति ।
कर्माणि निर्दहति किन्तु च भक्ति भाजां
गोविन्दमादि पुरुषं तमहं भजामि ॥ 54 ॥


यं क्रोध काम सहज प्रणयादि भीति
वात्सल्य मोह गुरु गौरव सेव्य भावैः ।
सञ्चिन्त्य तस्य सदृशीं तनुमापुरेते
गोविन्दमादि पुरुषं तमहं भजामि ॥ 55 ॥


श्रियः कान्ताः कान्तः परम पुरुषः कल्पतरवो
द्रुमा भूमिश्चिन्तामणि गण मयी तोयममृतम् ।
कथा गानं नाट्यं गमनमपि वंशी प्रिय सखी
चिदानन्दं ज्योतिः परमपि तदास्वाद्यमपि च ॥
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं
विदन्तस्ते सन्तः क्षिति विरल चाराः कतिपये ॥ 56 ॥